जिन नमस्काराष्टक स्तोत्र लिरिक्स | Jin Namaskar ashtak Stotra Lyrics

Jin Namaskar ashtak Stotra Lyrics

Shree Jin Namaskar ashtak Stotra Lyrics

तुभ्यं नमः सकल लोकहितंकराय,
तुभ्यं नमः सकल कर्म विनाशकाय ।
तुभ्यं नमः सकल जीवसुतारकाय,
तुभ्यं नमो जिन वरेन्द्रसुखांकिताय ॥

तुभ्यं नमः सकल दोष विवर्जिताय,
तुभ्यं नमः सकल मर्म-प्रदर्शकाय ।
तुभ्यं नमः परम सेवक त्तारकाय,
तुभ्यं नमो रविपतेर्मद नाशकाय ॥

तुभ्यं नमः अखिलकषाय विवर्जिताय,
तुभ्यं नमो अखिलभवोदधिशोषणाय ।
तुभ्यं नमः परम केवल ज्ञानदाय,
तुभ्यं नमः परम देव जिनेश्वरा ॥

तुभ्यं नमः सकल दर्शन धारकाय,
तुभ्यं नमः सकल ज्ञान प्रकाशकाय ।
तुभ्यं नमः सकल वीर्य सुधारकाय,
तुभ्यं नमः सकल सुखधराधिकाय ॥

तुभ्यं नमः सकल सत्व हितंकराय,
तुभ्यं नमो दश सुधर्मविवर्धकाय ।
तुभ्यं नमः सकल पाप विनाशकाय,
तुभ्यं नमः सकल तत्व-प्रकाशकाय ॥

तुभ्यं नमः सकल व्यक्ति विकाशकाय,
तुभ्यं नमः सकल भूषण भूषिताय ।
तुभ्यं नमः सकल लोकविभासकाय,
तुभ्यं नमः परम पूज्य निरंजनाय ॥

तुभ्यं नमः हत प्रमाद, जिनाग्रिमाय,
तुभ्यं नमः परम देव मुनीश्वराय ।
तुभ्यं नमः परमशांत परस्थिताय,
तुभ्यं नमः वसु गुणांकितशर्मदाय ॥

तुभ्यं नमस्त्रिभूवनार्तिहराय नाथ,
तुभ्यं नमः क्षिति तलामल भूषणाय ।
तुभ्यं नमः त्रिजगतः परमेश्वराय,
तुभ्यं नमः जिन भवोदधि शोषणायः ॥



Next Post Previous Post
No Comment
Add Comment
comment url