अद्याष्टक स्तोत्र लिरिक्स | Adyashtakam Stotra Lyrics

Adyashtak Stotra Lyrics

Jain Adhyastak Stotram Lyrics

अद्य मे सफलं जन्म, नेत्रे च सफले मम।
त्वामद्राक्षं यतो देव, हेतुमक्षयसम्पदः ॥1॥

अद्य संसार-गम्भीर,पारावारः सुदुस्तरः।
सुतरोऽयं क्षणेनैव जिनेन्द्र ! तव दर्शनात् ॥2॥

अद्य मे क्षालितं गात्रं, नेत्रे च विमले कृते।
स्नातोऽहं धर्म-तीर्थेषु जिनेन्द्र ! तव दर्शनात् ॥3॥

अद्य मे सफलं जन्म, प्रशस्तं सर्वमंगलम्।
संसारार्णव-तीर्णोऽहं जिनेन्द्र ! तव दर्शनात् ॥4॥

अद्य कर्माष्टक-ज्वालं, विधूतं सकषायकम्।
दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र ! तव दर्शनात् ॥5॥

अद्य सौम्या ग्रहाः सर्वे, शुभाश्चैकादश-स्थिताः।
नष्टानि विघ्न-जालानि जिनेन्द्र ! तव दर्शनात् ॥6॥

अद्य नष्टो महाबन्धः, कर्मणां दुःखदायकः।
सुख-सङ्गं समापन्नो जिनेन्द्र ! तव दर्शनात् ॥7॥

अद्य कर्माष्टकं नष्टं, दुःखोत्पादन-कारकम्।
सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र ! तव दर्शनात् ॥8॥

अद्य मिथ्यान्धकारस्य, हन्ता ज्ञान-दिवाकरः।
उदितो मच्छरीरेऽस्मिन् जिनेन्द्र ! तव दर्शनात् ॥9॥

अद्याहं सुकृतीभूतो, निर्धूताशेषकल्मषः।
भुवन-त्रय-पूज्योऽहं जिनेन्द्र ! तव दर्शनात् ॥10॥

 अद्याष्टकं पठेद्यस्तु, गुणानन्दित-मानसः।
तस्य सर्वार्थसंसिद्धिर्जिनेन्द्र ! तव दर्शनात् ॥11॥

इति अद्याष्टक



Next Post Previous Post
No Comment
Add Comment
comment url