श्री शीतलाष्टक स्तोत्र लिरिक्स | Shree Sheetla Ashatak Stotra Lyrics

Shree Sheetla Ashatak Stotra Lyrics In Hindi
श्रीगणेशाय नमः
विनियोग:
ऊँ अस्य श्रीशीतला स्तोत्रस्य महादेव ऋषिः,
अनुष्टुप् छन्दः, शीतली देवता,
लक्ष्मी बीजम्, भवानी शक्तिः,
सर्वविस्फोटक निवृत्तये जपे विनियोगः ||
ऋष्यादि-न्यासः
श्रीमहादेव ऋषये नमः शिरसि,
अनुष्टुप् छन्दसे नमः मुखे,
श्रीशीतला देवतायै नमः हृदि,
लक्ष्मी (श्री) बीजाय नमः गुह्ये,
भवानी शक्तये नमः पादयो,
सर्व-विस्फोटक-निवृत्यर्थे जपे,
विनियोगाय नमः सर्वांगे ||
ध्यानः
ध्यायामि शीतलां देवीं,
रासभस्थां दिगम्बराम्,
मार्जनी-कलशोपेतां,
शूर्पालङ्कृत-मस्तकाम् ||
मानस-पूजनः
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं,
श्री शीतला-देवी-प्रीतये समर्पयामि नमः,
ॐ हं आकाश-तत्त्वात्मकं,
पुष्पं श्री शीतला-देवी-प्रीतये समर्पयामि नमः,
ॐ यं वायु-तत्त्वात्मकं धूपं,
श्री शीतला-देवी-प्रीतये समर्पयामि नमः ||
ॐ रं अग्नि-तत्त्वात्मकं दीपं,
श्री शीतला-देवी-प्रीतये समर्पयामि नमः,
ॐ वं जल-तत्त्वात्मकं नैवेद्यं,
श्री शीतला-देवी-प्रीतये समर्पयामि नमः ||
ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं,
श्री शीतला-देवी-प्रीतये समर्पयामि नमः ||
मन्त्रः
ॐ ह्रीं श्रीं शीतलायै नमः || (११ बार)
ईश्वर उवाच
वन्दे अहं शीतलां देवीं रासभस्थां दिगम्बराम्,
मार्जनी कलशोपेतां शूर्पालं कृत मस्तकाम् ||१||
वन्देअहं शीतलां देवीं सर्व रोग भयापहाम्,
यामासाद्य निवर्तेत विस्फोटक भयं महत् ||२||
शीतले शीतले चेति यो ब्रूयाद्दारपीड़ितः,
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ||३||
यस्त्वामुदक मध्ये तु धृत्वा पूजयते नरः,
विस्फोटकभयं घोरं गृहे तस्य न जायते ||४||
शीतले ज्वर दग्धस्य पूतिगन्धयुतस्य च,
प्रनष्टचक्षुषः पुसस्त्वामाहुर्जीवनौषधम् ||५||
शीतले तनुजां रोगानृणां हरसि दुस्त्यजान्,
विस्फोटक विदीर्णानां त्वमेका अमृत वर्षिणी ||६||
गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम्,
त्वदनु ध्यान मात्रेण शीतले यान्ति संक्षयम् ||७||
न मन्त्रा नौषधं तस्य पापरोगस्य विद्यते,
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ||८||
फल-श्रुति
मृणालतन्तु सद्दशीं नाभिहृन्मध्य संस्थिताम्,
यस्त्वां संचिन्तये द्देवि तस्य मृत्युर्न जायते ||९||
अष्टकं शीतला देव्या यो नरः प्रपठेत्सदा,
विस्फोटकभयं घोरं गृहे तस्य न जायते ||१०||
श्रोतव्यं पठितव्यं च श्रद्धा भक्ति समन्वितैः,
उपसर्ग विनाशाय परं स्वस्त्ययनं महत् ||११||
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता,
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ||१२||
रासभो गर्दभश्चैव खरो वैशाख नन्दनः,
शीतला वाहनश्चैव दूर्वाकन्दनिकृन्तनः ||१३||
एतानि खर नामानि शीतलाग्रे तु यः पठेत्,
तस्य गेहे शिशूनां च शीतला रूङ् न जायते ||१४||
शीतला अष्टकमेवेदं न देयं यस्य कस्यचित्,
दातव्यं च सदा तस्मै श्रद्धा भक्ति युताय वै ||१५||
श्रीस्कन्दपुराणे शीतलाष्टक स्तोत्र लिरिक्स ||