श्री दशरथ कृत शनि स्तोत्र लिरिक्स | Shree Dashrath Krit Shani Stotra Lyrics

Shree Dashrath Krit Shani stotra Lyrics In Hindi
दशरथ उवाच:प्रसन्नो यदि मे सौरे !,
एकश्चास्तु वरः परः ॥
रोहिणीं भेदयित्वा तु,
न गन्तव्यं कदाचन्,
सरितः सागरा,
यावद्यावच्चन्द्रार्कमेदिनी ||
याचितं तु महासौरे !,
नऽन्यमिच्छाम्यहं |
एवमस्तुशनिप्रोक्तं,
वरलब्ध्वा तु शाश्वतम् ||
प्राप्यैवं तु वरं राजा,
कृतकृत्योऽभवत्तदा |
पुनरेवाऽब्रवीत्तुष्टो,
वरं वरम् सुव्रत ||
दशरथकृत शनि स्तोत्र:,
नम: कृष्णाय नीलाय,
शितिकण्ठ निभाय च |
नम: कालाग्निरूपाय,
कृतान्ताय च वै नम: ||१||
नमो निर्मांस देहाय,
दीर्घश्मश्रुजटाय च |
नमो विशालनेत्राय,
शुष्कोदर भयाकृते ||२||
नम: पुष्कलगात्राय,
स्थूलरोम्णेऽथ वै नम: |
नमो दीर्घाय शुष्काय,
कालदंष्ट्र नमोऽस्तु ते ||३||
नमस्ते कोटराक्षाय,
दुर्नरीक्ष्याय वै नम: |
नमो घोराय रौद्राय,
भीषणाय कपालिने ||४||
नमस्ते सर्वभक्षाय,
बलीमुख नमोऽस्तु ते |
सूर्यपुत्र नमस्तेऽस्तु,
भास्करेऽभयदाय च ||५||
अधोदृष्टे: नमस्तेऽस्तु,
संवर्तक नमोऽस्तु ते |
नमो मन्दगते तुभ्यं,
निस्त्रिंशाय नमोऽस्तुते ||६||
तपसा दग्ध-देहाय,
नित्यं योगरताय च |
नमो नित्यं क्षुधार्ताय,
अतृप्ताय च वै नम: ||७||
ज्ञानचक्षुर्नमस्तेऽस्तु,
कश्यपात्मज-सूनवे |
तुष्टो ददासि वै राज्यं,
रुष्टो हरसि तत्क्षणात् ||८||
देवासुरमनुष्याश्च,
सिद्ध-विद्याधरोरगा: |
त्वया विलोकिता:,
सर्वे नाशं यान्ति समूलत: ||९||
प्रसाद कुरु मे सौरे !,
वारदो भव भास्करे |
एवं स्तुतस्तदा,
सौरिर्ग्रहराजो महाबल: ||१०||
दशरथ उवाच:
प्रसन्नो यदि मे सौरे !,
वरं देहि ममेप्सितम् |
अद्य प्रभृति-पिंगाक्ष !
पीडा देया न कस्यचित् ||
