सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् लीरिक्स | Saurashtre Somnatham Cha Shree Shaile Mallikaarjun Lyrics
द्वादश ज्योतिर्लिंग मंत्र लीरिक्स | Dwadash Jyotirling Mantra Lyrics
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥१॥
परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥
वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥
