कृष्ण प्रेममयी राधा लिरिक्स | Krishna Premamayi Radha Lyrics

Krishna Prema Mayi Radha Lyrics In Hindi
कृष्ण प्रेम मयी राधा,राधा प्रेम मयो हरिः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥1॥
कृष्णस्य द्रविणं राधा,
राधायाः द्रविणं हरिः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥2॥
कृष्ण प्राण मयी राधा,
राधा प्राणमयो हरिः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥3॥
कृष्ण द्रवा मयी राधा,
राधा द्रवामयो हरिः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥4॥
कृष्ण गेहे स्थिता राधा,
राधा गेहे स्थितो हरिः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥5॥
कृष्ण चित्त स्थिता राधा,
राधा चित्स्थितो हरिः,
जीवनेन धने नित्यं,
राधाकृष्णगतिर्मम् ॥6॥
नीलाम्बरा धरा राधा,
पीताम्बरो धरो हरिः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥7॥
वृन्दावनेश्वरी राधा,
कृष्णो वृन्दावनेश्वरः,
जीवनेन धने नित्यं,
राधा कृष्ण गतिर्मम् ॥8॥